पूर्वम्: ८।४।५७
अनन्तरम्: ८।४।५९
 
सूत्रम्
वा पदान्तस्य॥ ८।४।५८
काशिका-वृत्तिः
वा पदान्तस्य ८।४।५९

पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति। तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषो ऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषो ऽवधीत्।
लघु-सिद्धान्त-कौमुदी
वा पदान्तस्य ८०, ८।४।५८

त्वङ्करोषि, त्वं करोषि॥
न्यासः
वा पदान्तस्य। , ८।४।५८

वावचनं पूर्वस्य नित्यात्वज्ञापनार्थम्()। द्वयोर्विभावयोमध्ये ये वै विधयस्ते नित्या भवन्तीति कृत्वा। असति वाग्रहणे विपर्ययः सम्भाव्येत--पूर्वो विधिर्विभाषा, अयं तु विधिरारम्भसामथ्र्यान्नित्य इति॥
बाल-मनोरमा
वा पदान्तस्य १२६, ८।४।५८

वा पदान्तस्य। "अनुस्वारस्य ययि परसवर्ण" इत्यनुवर्तते। तदाह--पदान्तस्येत्यादिना। त्वङ्करोषीति। त्वम्-करोषीति। स्थिते मोऽनुस्वारः। परसवर्णो ङकारः। तदभावपक्षे अनुस्वार एव श्रूयते। अत्रेति। सम्-यन्तेति स्थिते मोऽनुस्वारः। तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात्। तथाच सय्यँन्तेति रूपम्। एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः। सव्वँत्सर इति रूपम्। यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः। यल्लोंकमिति रूपम्। परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः।